अमरकोशः


श्लोकः

मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी । इन्वकास्तच्छिरोदेशे तारका निवसन्ति याः ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मृगशीर्ष मृगशीर्षम् पुंलिङ्गः, नपुंसकलिङ्गः आकृत्या मृगस्य शीर्षमिव शीर्षं शिरो यस्य । बहुव्रीहिः समासः अकारान्तः
2 मृगशिरस् मृगशिरः पुंलिङ्गः, नपुंसकलिङ्गः मृगः शिरोऽस्य । बहुव्रीहिः समासः सकारान्तः
3 आग्रहायणी आग्रहायणी स्त्रीलिङ्गः अग्रे हायनमस्या: । बहुव्रीहिः समासः ईकारान्तः
4 इन्वका इन्वका स्त्रीलिङ्गः इन्वन्ति प्रीणयन्ति । क्वुन् उणादिः आकारान्तः