आग्रहायणी

सुधाव्याख्या

अग्रे हायनमस्या: । मार्गशीर्षमारभ्य वर्षप्रवृत्तेः । प्रज्ञाद्यण् ( ५.४३८) । पूर्वपदात्-' (८.४.३) इति णत्वम् । आग्रहायणी पौर्णमासी । तद्योगान्नक्षत्रमपि तथा । यत्तु-आग्रहायण्यश्वत्थाट्ठक्' (४.२.२२) इति निर्देशात्स्वार्थेऽण् । गौरादित्वात् (४.१.४१) ङीष् । अणन्तत्वादेव ङीपि सिद्धे गौरादिषु पाठोऽस्य पुंवद्भावनिषेधार्थः । तेनाग्रहायणीभार्य इति सिध्यति–इति मुकुटः । तन्न । अपसिद्धान्तात् । न हि गौरादित्वं पुंवद्भावप्रतिषेधार्थम्, किं तु ङीष्विधानार्थम् । न च पाठसामर्थ्यम् । तस्य स्वरभेदार्थत्वात् । न चोदात्तनिवृत्तिस्वरेण तदभावः पाठसामर्थ्यादुदात्तनिवृत्तिस्वरस्यैव बाधसम्भवात् । अस्य गौरादिकत्वमप्रामाणिकमिति सुवचत्वाच्च ।


प्रक्रिया

अग्र + ङि + हायन + सु - अनेकमन्यपदार्थे 2.2.24
अग्रहायन - सुपो धातुप्रातिपदिकयोः 2.4.71
अग्रहायन + अण् - प्रज्ञादिभ्यश्च 5.4.38
अग्रहायन + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अग्रहायन् + अ - यस्येति च 6.4.148
आग्रहायन् + अ - तद्धितेष्वचामादेः 7.2.117
आग्रहायण - पूर्वपदात्‌ संज्ञायामगः 8.4.3
आग्रहायण + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
आग्रहायण + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आग्रहायण् + ई - यस्येति च 6.4.148
आग्रहायणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आग्रहायणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आग्रहायणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68