मृगशिरः

सुधाव्याख्या

मृगः शिरोऽस्य । रूपभेदात्क्लीबम् । ‘सौम्या मृगशिरः स्युर्मृगशिराः इति बोपालितः स्त्रीत्वमप्याह । मृगोऽपि मृगशीर्षे हस्तिजातौ मृगः पशुकुरङ्गयोः इति व्याडिः ।