इन्वका

सुधाव्याख्या

इन्वका इति । इन्वन्ति प्रीणयन्ति । ‘इवि व्याप्तौ प्रीणने च' (भ्वा० प० से०) इदित्वात् (७.१.५८) नुम् । संज्ञायां क्वुन् (उ० २.३२) । क्षिपकादित्वात् (वा० ७.३.४५) इत्वाभावः । ‘इल्वलाः’ इति पाठे तु ‘इल स्वप्ने क्षेपणे च' (तु० प० से०) । ‘सानसिवर्णसि-' (उ० ४.१०७) इति वलच् गुणाभावश्च निपात्यते । (‘इल्वलास्तारका भेदेऽपील्वलो मत्स्यदैत्ययोः’) ॥


प्रक्रिया

धातुः - इविँ व्याप्तौ


इव् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इ नुम् व् - इदितो नुम् धातोः 7.1.58
इन्व् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इन्व् + क्वुन् - क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि (२.३२) । उणादिसूत्रम् ।
इन्व् + वु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
इन्व् + अक - युवोरनाकौ 7.1.1
इन्वक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
इन्वक् + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
इन्वका - अकः सवर्णे दीर्घः 6.1.101
इन्वका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
इन्वका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इन्वका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68