अमरकोशः


श्लोकः

उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे । इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत् ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उदीची उदीची स्त्रीलिङ्गः उद् ऊर्ध्वं तरन्त्यत्र । तत्पुरुषः समासः ईकारान्तः
2 दिश्य दिश्यम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दिशि भवं दिश्यम् । यत् तद्धितः अकारान्तः
3 इन्द्र इन्द्रः पुंलिङ्गः इन्दति ।  रन् उणादिः अकारान्तः
4 वह्नि वह्निः पुंलिङ्गः वहति हव्यम् । नि उणादिः इकारान्तः
5 पितृपति पितृपतिः पुंलिङ्गः पितॄणां पतिः । तत्पुरुषः समासः इकारान्तः
6 नैर्ऋत नैरृतः पुंलिङ्गः निर्ऋतेरपत्यम् । अण् तद्धितः अकारान्तः
7 वरुण वरुणः पुंलिङ्गः व्रियते वृणोति वा ।  उनन् उणादिः अकारान्तः
8 मरुत् मरुत् पुंलिङ्गः म्रियन्तेऽनेन वृद्धेन विना वा ।  उति उणादिः तकारान्तः