वरुणः

सुधाव्याख्या

व्रियते वृणोति वा । ‘वृञ् वरणे’ (स्वा० उ० से०) । 'कृवृदारिभ्य उनन्’ (उ० ३.५३) । ’वरुणस्तरुभेदेऽप्सु प्रतीचीपतिसूर्ययोः । युचि (उ०२.७४) ‘वरण:’ अपि । ‘वरं वृणन्ति तं देवा वरदश्च वरार्थिनाम् । धातुर्वै वरणे प्रोक्तस्तस्मात्स वरणः स्मृतः इति साम्बपुराणम् ।