उदीची

सुधाव्याख्या

पूर्वदक्षिणेत्यत्र ‘सर्वनाम्नो वृतिमात्रे पुंवद्भावः’ (वा० ५.३.२८) । उद् ऊर्ध्वं तरन्त्यत्र । ‘तॄ प्लवनसंतरणयोः (भ्वा० प० से०) । ॠदोरप्' (३.३.५७) ('उत्तरा दिग्विशेषे च स्नुषायामर्जुनस्य च') ॥ उत् उत्तरमञ्चत्यर्कम् । उत्क्रान्तं दृष्टिपथमञ्चति सूर्यं वा । अस्यामिति तु न युक्तम् । उद ईत्’ (६।४।१३९) इत्यञ्चतेरत ईकारः ।


प्रक्रिया

धातुः - अन्चुँ गतिपूजनयोः


अञ्च् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उत् अञ्च् क्विन् - ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च 3.2.59
उत् अञ्च् व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उत् अञ्च् - वेरपृक्तस्य 6.1.67
उत् अच् - अनिदितां हल उपधायाः क्ङिति 6.4.24
उत् ईच् - उद ईत्‌ 6.4.139
उदीच् - झलां जशोऽन्ते 8.2.39
उदीच् ङीप् - उगितश्च 4.1.6
उदीच् ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
उदीची सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उदीची स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उदीची - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68