इन्द्रः

सुधाव्याख्या

इन्दति । ’इदि परमैश्वर्यं' (भ्वा० प० से०) । 'ऋज्रेन्द्र- उ० २.२८) इत्यादिना रन् । 'रग्' इति मुकुटः । तन्न । अन्तोदात्तत्वापत्तेः । 'इन्द्रः शक्रादित्यभेदयोगभेदान्तरात्मसु । ‘इन्द्रः फणिज्जकेऽस्त्री स्यात् ।


प्रक्रिया

धातुः - इदिँ परमैश्वर्ये


इद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इ नुम् द् - इदितो नुम् धातोः 7.1.58
इ न् द् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इन्द्+रन् - ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२९) । उणादिसूत्रम् ।
इन्द्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
इन्द्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
इन्द्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इन्द्र + रु - ससजुषो रुः 8.2.66
इन्द्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इन्द्रः - खरवसानयोर्विसर्जनीयः 8.3.15