अमरकोशः


श्लोकः

विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः । अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ॥१४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विधु विधुः पुंलिङ्गः विशेषेण धयन्त्येनं सुराः । उणादिः उकारान्तः
2 सुधांशु सुधांशुः पुंलिङ्गः सुधायुक्ता अंशवो यस्य । बहुव्रीहिः समासः उकारान्तः
3 शुभ्रांशु शुभ्रांशुः पुंलिङ्गः शुभ्रा अंशवो यस्य । बहुव्रीहिः समासः उकारान्तः
4 ओषधीश ओषधीशः पुंलिङ्गः ओषधीनामीशः । तत्पुरुषः समासः अकारान्तः
5 निशापति निशापतिः पुंलिङ्गः निशायाः पतिः। तत्पुरुषः समासः इकारान्तः
6 अब्ज अब्जः पुंलिङ्गः अद्धयो जातः । तत्पुरुषः समासः अकारान्तः
7 जैवातृक जैवातृकः पुंलिङ्गः जीवयति । आतृकन् उणादिः अकारान्तः
8 सोम सोमः पुंलिङ्गः अमृतं सूते सोमः । मन् उणादिः अकारान्तः
9 ग्लौ ग्लौः पुंलिङ्गः ग्लायति । डौ उणादिः औकारान्तः
10 मृगाङ्क मृगाङ्कः पुंलिङ्गः मृगोऽङ्कोऽस्य | बहुव्रीहिः समासः अकारान्तः
11 कलानिधि कलानिधिः पुंलिङ्गः कला निधीयन्तेऽत्र । तत्पुरुषः समासः इकारान्तः