ग्लौः

सुधाव्याख्या

ग्लायति । ‘ग्लै हर्षक्षये’ (भ्वा० प० अ०) । ‘ग्लानुदिभ्यां डौः’ (उ० २६४) ॥


प्रक्रिया

धातुः - ग्लै हर्षक्षये


ग्लै + डौ - ग्लानुदिभ्यां डौः (२.६४) । उणादिसूत्रम् ।
ग्ला + डौ - आदेच उपदेशेऽशिति 6.1.45
ग्ला + औ - चुटू 1.3.7, तस्य लोपः 1.3.9
ग्ल् + औ - डित्वसामर्थ्यादभस्यापि टेर्लोपः।
ग्लौ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ग्लौ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ग्लौ + रु - ससजुषो रुः 8.2.66
ग्लौ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ग्लौः - खरवसानयोर्विसर्जनीयः 8.3.15