सोमः

सुधाव्याख्या

अमृतं सूते सोमः । अर्तिस्तुसू-' (उ० १.१४०) इत्यादिना मन् । 'सोमस्त्वोषधीतद्रसेन्दुषु । दिव्यौषध्यां घनसारे समीरे पितृदैवते । वसुप्रभेदे सलिले वानरे किंनरेश्वरे’ इति हैमः । सोमा नकारान्तोऽपि । नामन्सीमन्सोमन्-' इत्यादिना दशपाद्यां निपातनात् । यत्तु मुकुटेनोक्तम् — सूयते जायते 'नवो नवो भवति जायमानः इति श्रुतेः, सूयते यज्ञाङ्गस्थानं वा करोति, सूतेऽमृतं वा सोम इति षुञ् अभिषवे’ । ‘षू प्रेरणे' वा – इति । तन्न । सूयतेः सकर्मकत्वेन जायते इति प्रातिपदासम्भवात् । श्रुत्युपन्यासोऽप्यसम्बद्धः । जायमान इति जनेरकर्मकस्य ग्रहणात् । एतेनैव स्वाम्युक्तिरपि प्रत्युक्ता । सूयत इत्यस्य यज्ञाङ्गस्थानं वा करोति इत्यर्थकथनमप्यसंगतम् । प्राणिगर्भविमोचनार्थकस्य तदसम्भवात् । सुनोतेः सुवतेश्चोपन्यासः पूर्वान्वयी स्वतन्त्रो वा । नाद्यः । षङा विगृह्य तदुपन्यासस्यासंगतत्वात् । द्वितीयेऽपि ‘अर्ति-स्तु-’ इति हस्वस्य ग्रहणे सुवतेरुपन्यासोऽसंगतः । दीर्घग्रहणे सुनोतेरुपन्यासोऽसंगतः ।