जैवातृकः

सुधाव्याख्या

जीवयति । अन्तर्भावितण्यर्थः। ‘जीवेः’ इत्यनुवृत्तौ ‘आतृकन् वृद्धिश्च' (उ० १.७९) इति साधुः । 'जैवातृकः पुमान् सोमे कृषकायुष्मतोस्त्रिषु' ॥