अमरकोशः


श्लोकः

खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् । स्यादालवालमावालमावापोऽथ नदी सरित् ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 खेय खेयम् नपुंसकलिङ्गः खन्यते । क्यप् कृत् अकारान्तः
2 परिखा परिखा स्त्रीलिङ्गः परितः खन्यते, इति । डः कृत् आकारान्तः
3 आधार आधारः पुंलिङ्गः आध्रियते जलमस्मिन् । घञ् कृत् अकारान्तः
4 आलवाल आलवालम् नपुंसकलिङ्गः आ समन्ताज्जलस्य लवम् आलाति । कः कृत् अकारान्तः
5 आवाल आवालम् नपुंसकलिङ्गः आवलतेऽम्भोऽनेन । घञ् कृत् अकारान्तः
6 आवाप आवापः पुंलिङ्गः आ वपन्ति जलमत्र । घञ् कृत् अकारान्तः
7 नदी नदी स्त्रीलिङ्गः नदति । अच् कृत् ईकारान्तः
8 सरित् सरित् स्त्रीलिङ्गः इनिः उणादिः तकारान्तः