आलवालम्

सुधाव्याख्या

स्यादिति । आ समन्ताज्जलस्य लवम् आलाति । 'ला आदाने ’ (अ० प० अ०) । मूलविभुजादित्वात् (वा० ३.२.५) कः । लवमालाति । तद्भिन्नम् । नञ्समासे (अलवालः) ह्रस्वादिः - इत्यन्ये ।


प्रक्रिया

धातुः - ला आदाने


आङ् + लव + अम् + आङ् + ला + क – कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (3.2.5) । वार्तिकम् ।
आङ् + लव + आङ् + ला + क - सुपो धातुप्रातिपदिकयोः 2.4.71
आ + लव + आ + ला + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आ + लव + आ + ला + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आ + लव + आ + ल् + अ - आतो लोप इटि च 6.4.64
आलवाल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आलवाल + अम् - अतोऽम् 7.1.24
आलवालम् - अमि पूर्वः 6.1.107