आवापः

सुधाव्याख्या

आ वपन्ति जलमत्र । ‘डुवपँ बीजतन्तुसंताने (भ्वा० उ० से०) । 'हलश्च (३.३.१२१) इति घञ् । आवापो भाण्डपचने परिक्षेपालालयोः' । त्रीणि वृक्षमूलकृतजलाधारस्य ।