अमरकोशः


श्लोकः

पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः । विसारः शकुली चाथ गडकः शकुलार्भकः ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पृथुरोमन् पृथुरोमा पुंलिङ्गः पृथूनि रोमाण्यस्य । नकारान्तः
2 झष झषः पुंलिङ्गः झषति अच् कृत् अकारान्तः
3 मत्स्य मत्स्यः पुंलिङ्गः माद्यति । स्यन् उणादिः अकारान्तः
4 मीन मीनः पुंलिङ्गः मीनाति, मीयते वा । नक् उणादिः अकारान्तः
5 वैसारिण वैसारिणः पुंलिङ्गः विविधं सरति । णिनिः तद्धितः अकारान्तः
6 अण्डज अण्डजः पुंलिङ्गः अण्डाज्जायते स्म । डः कृत् अकारान्तः
7 विसार विसारः पुंलिङ्गः विशेषेण सरति । घञ् कृत् अकारान्तः
8 शकलिन् शकली पुंलिङ्गः शकलमस्यास्ति । इनिः तद्धितः नकारान्तः
9 गडक गडकः पुंलिङ्गः गडति । क्वुन् उणादिः अकारान्तः
10 शकुलार्भक शकुलार्भकः पुंलिङ्गः शकुलोऽत्र मत्स्यात्रे–इति स्वामी । तस्यार्भकः । अकारान्तः