मत्स्यः

सुधाव्याख्या

माद्यति । “मदी हर्षे (दि० प० से०) । 'ऋतन्यञ्जि-’ (उ० ४.२) इति स्यन् । 'मत्स्यो मीनेऽथ पुभूम्नि देशे’ ॥


प्रक्रिया

धातुः - मदीँ हर्षग्लेपनयोः


मद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मद् + स्यन् - ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः (४.२) । उणादिसूत्रम् ।
मद् + स्य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मत्स्य - खरि च 8.4.55
मत्स्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मत्स्य + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मत्स्य + रु - ससजुषो रुः 8.2.66
मत्स्य + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मत्स्यः - खरवसानयोर्विसर्जनीयः 8.3.15