झषः

सुधाव्याख्या

झषति 'झष हिंसार्थः (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । यद्वा झष्यते । 'खनो घ च' (३.३.१२५) इति घः । मुकुटस्तु-'पुंसि (३.३.११८) इति घः - इत्याह । तन्न । ‘हलश्च' (३.३.१२१) इति घञस्तदपवादत्वात् । ‘करणाधिकरणयोः (३.३.११७) इत्यनुवर्तनाच्च । ‘झषा नागबलायां स्त्री, तापमत्स्याटवीषुना’ ॥