अमरकोशः


श्लोकः

समुद्रोऽब्धिरकूपार: पारावारः सरित्पतिः । उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समुद्र समुद्रः पुंलिङ्गः समुनत्ति । रक् उणादिः अकारान्तः
2 अब्धि अब्धिः पुंलिङ्गः आपो धीयन्तेऽत्र । किः कृत् इकारान्तः
3 अकूपार अकूपारः पुंलिङ्गः कुं पृथ्वीं पिपर्ति । नञ् समासः समासः अकारान्तः
4 पारावार पारावारः पुंलिङ्गः पारमावृणोति । अण् कृत् अकारान्तः
5 सरित्पति सरित्पतिः पुंलिङ्गः सरितां पतिः । तत्पुरुषः समासः समासः इकारान्तः
6 उदन्वत् उदन्वान् पुंलिङ्गः मतुप् तद्धितः तकारान्तः
7 उदधि उदधिः पुंलिङ्गः उदकानि धीयन्तेऽत्र । किः कृत् इकारान्तः
8 सिन्धु सिन्धुः पुंलिङ्गः स्यन्दन्ते आपोऽत्र । उः उणादिः उकारान्तः
9 सरस्वत् सरस्वान् पुंलिङ्गः सरो नीरं गतिर्वास्त्यस्मिन् । मतुप् तद्धितः तकारान्तः
10 सागर सागरः पुंलिङ्गः सगरस्य रातोऽयम् । अण् तद्धितः अकारान्तः
11 अर्णव अर्णवः पुंलिङ्गः अर्णांस्यत्र सन्ति । अकारान्तः