अकूपारः

सुधाव्याख्या

कुं पृथ्वीं पिपर्ति । ‘पृ पालनपूरणयो:’ (जु० प० से०) । ‘कर्मण्यण्' (३.२.१) । अन्येषामपि-' (६.३.१३७) इति दीर्घः । नञ्समासः (२.२.१८) । यद्वा न कूपमृच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । अगाधत्वात् खनितुमशक्यः । कुश्च उश्च क्वौ पिपर्ति । ‘पृ पालनपूरणयोः (जु० प० से०) । ‘कर्मण्यण्' (३.२.१) । तद्भिन्नः । ('अकूपारः कूर्मराजसमुद्रयोः')