सरस्वान्

सुधाव्याख्या

'सरो नीरे तडागे च' इति रुद्रः । सरो नीरं गतिर्वास्त्यस्मिन् । मतुप् (५. २.९५) । 'तसौ मत्वर्थे' (१.४.१९) इति भत्वम् । 'सरस्वांस्तु नदे वार्धौ ना, न्यवद्रसिके, स्त्रियाम् वाणीस्त्रीरत्नवाग् देवीगोनदीषु नदीभिदि । मनुपत्न्यामपि ॥


प्रक्रिया