अमरकोशः


श्लोकः

बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च । पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ ४१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विसप्रसून विसप्रसूनम् नपुंसकलिङ्गः बिसस्य प्रसूनम् ॥ तत्पुरुषः समासः समासः अकारान्तः
2 राजीव राजीवम् नपुंसकलिङ्गः केसरस्य राज्यस्यास्ति । ङः तद्धितः अकारान्तः
3 पुष्कर पुष्करम् नपुंसकलिङ्गः पुष्णाति । करन् उणादिः अकारान्तः
4 अम्भोरूह अम्भोरुहम् नपुंसकलिङ्गः अम्भसि रोहति ॥ कः कृत् अकारान्तः
5 पुण्डरीक पुण्डरीकम् नपुंसकलिङ्गः पुण्डेति । अरीकन् उणादिः अकारान्तः
6 सीताम्भोज सिताम्भोजम् नपुंसकलिङ्गः सितं शुक्लं च तदम्भोजं च ॥ कर्मधारय समासः समासः अकारान्तः
7 रक्तसरोरुह रक्तसरोरुहम् नपुंसकलिङ्गः रक्तं च तत्सरोरुहं च ॥ समासः अकारान्तः