पुण्डरीकम्

सुधाव्याख्या

पुण्डेति । पुण्डयति । ‘मडि भूषायाम्” । पुडि च' (भ्वा० प० से०) । ‘पर्फरीकादयश्च’ (उ० ४.२०) इत्यरीकन् । पुण्डरीकं सिताम्भोजे सितिच्छत्रे च भेषजे । पुंसि व्याघ्रेऽग्नि दिग्वर्गे कोषकारान्तरेऽपि च ।