पुष्करम्

सुधाव्याख्या

पुष्णाति । ‘पुष पुष्टौ' (दि० प० अ०) । ‘पुषः कित्' (उ० ४.४) इति करन् । 'पुष्करं द्वीपतीर्थाहिखगरागौषधान्तरे । तूर्यास्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे’ इति हैमः ।