अमरकोशः


श्लोकः

अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूवरः । कैलासः स्थानमलका पूर्विमानं तु पुष्पकम् ॥ ७० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चैत्ररथ चैत्ररथम् नपुंसकलिङ्गः चित्ररथेन निर्वृत्तम् अण् तद्धितः अकारान्तः
2 नलकूबर नलकूबरः पुंलिङ्गः नलः कूवरो युगंधरो यस्य । बहुव्रीहिः समासः अकारान्तः
3 कैलास कैलासः पुंलिङ्गः के जले लासो लसनमस्य । बहुव्रीहिः समासः अकारान्तः
4 अलका अलका स्त्रीलिङ्गः अलति भूषयति । क्वुन् उणादिः आकारान्तः
5 पुष्पक पुष्पकम् नपुंसकलिङ्गः पुष्यति । क्वुन् उणादिः अकारान्तः