नलकूवरः

सुधाव्याख्या

पुत्रस्त्विति । नलः कूवरो युगंधरो यस्य । त्रिकाण्डशेषे तु– ‘पुत्रौ तु नलकूवरौ' इत्युक्तम् । तत्तु नासत्यौ’ इतिवदौपचारिकं बोध्यम् । नलकूवरमणिग्रीवयोस्तत्पुत्रयोः पुराणप्रसिद्धत्वात् । नलकूवरमणिग्रीवाविति ख्यातौ श्रियान्वितौ’ इति । भागवतम् ।।