कैलासः

सुधाव्याख्या

कैलास इति । के जले लासो लसनमस्य । केलासः स्फटिकः । 'हलदन्तात्-’ (६.३.९) इत्यलुक् । तस्यायं कैलासः यद्वा केलीनां समूहः कैलम् । तस्य समूहः’ (४.२.३७) इत्यण् । तेन आस्यतेऽत्र । आस उपवेशने' (अ० आ० से०) 'हलश्च’ (३.३.१२१) इति घञ् ।।