पुष्पकम्

सुधाव्याख्या

पुष्यति । पुष्प विकसने’ (दि० प० से०) । क्वुन् (उ० २.३२) पुष्पमिव वा । 'इवे प्रतिकृतौ । (५.३.९६) इति कन् । ‘विमानं तु पुष्पकोऽस्त्री नगरी त्वलका प्रभा’ इति शब्दार्णवात् पुंस्त्वमपि । (पुष्पकं रीतिपुष्पे च विमाने धनदस्य च । नेत्ररोगे तथा रत्नकङ्कणे च रसाञ्जने । लोहकांस्ये मृदङ्गारशकट्यां च नपुंसकम्' ।