अमरकोशः


श्लोकः

रात्रिंचरो रात्रिचरः कर्वुरो निकषात्मजः । यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ॥ ६० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रात्रिञ्चर रात्रिञ्चरः पुंलिङ्गः रात्रौ चरति । तत्पुरुषः समासः अकारान्तः
2 रात्रिचर रात्रिचरः पुंलिङ्गः रात्रौ चरति । तत्पुरुषः समासः अकारान्तः
3 कर्वुर कर्वुरः पुंलिङ्गः कुर्वुरो वर्णेन । उरच् उणादिः अकारान्तः
4 निकषात्मज निकषात्मजः पुंलिङ्गः निकषाया आत्मजः । तत्पुरुषः समासः अकारान्तः
5 यातुधान यातुधानः पुंलिङ्गः यातूनि रक्षांसि दधाति पुष्णाति स्वजातिपोषकत्वात् । तत्पुरुषः समासः अकारान्तः
6 पुण्यजन पुण्यजनः पुंलिङ्गः विरुद्धलक्षणया पुण्यश्चासौ जनश्च । तत्पुरुषः समासः अकारान्तः
7 नैर्ऋत नैर्ऋतः पुंलिङ्गः निर्ऋतेरपत्यम् । अण् तद्धितः अकारान्तः
8 यातु यातुः नपुंसकलिङ्गः याति । तु उणादिः उकारान्तः
9 रक्षस् रक्षः नपुंसकलिङ्गः रक्षन्त्यस्मात् । असुन् उणादिः सकारान्तः