रात्रिञ्चरः

सुधाव्याख्या

रात्रौ चरति । ’चरेष्टः’ (३.२.१६) । 'रात्रे कृति विभाषा-' (६.३.७२) इति पक्षे मुम् ।।


प्रक्रिया

धातुः - चरँ गतौ भक्षणे च


चर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रात्रि + ङि चर् + ट - उपपदमतिङ् 2.2.19, चरेष्टः 3.2.16
रात्रि + चर् + ट - सुपो धातुप्रातिपदिकयोः 2.4.71
रात्रि + चर् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
रात्रि मुम् चर - रात्रेः कृति विभाषा 6.3.72
रात्रि म् चर - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रात्रिंचर - नश्चापदान्तस्य झलि 8.3.24
रात्रिञ्चर - अनुस्वारस्य ययि परसवर्णः 8.4.58
रात्रिञ्चर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
रात्रिञ्चर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रात्रिञ्चर + रु - ससजुषो रुः 8.2.66
रात्रिञ्चर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रात्रिञ्चरः - खरवसानयोर्विसर्जनीयः 8.3.15