यातुधानः

सुधाव्याख्या

यातूनि रक्षांसि दधाति पुष्णाति स्वजातिपोषकत्वात् । धाञो 'बहुलमन्यत्रापि' (उ० २.७८) इति युच् । ‘कृत्यल्युटः-' (३.३.११३) इति ल्युट् वा । यातूनि यातनाः धीयन्तेऽस्मिन्निति वा । ल्युट् (३.३.११७) । अन्तस्थादिः ।। जातु कदाचित् धानं संनिधानमस्येति (जातुधानः) चवर्गादिरपि ॥