कर्बुरः

सुधाव्याख्या

कुर्वुरो वर्णेन । यद्वा-कर्वति । ’कर्व हिंसायाम्’ (भ्वा० प० से०) । 'मद्गुरादयश्च' (उ० १.४१) इति उरच् । (‘कर्वुरं सलिले हेम्नि कुर्वुरः पापरक्षसोः । कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत्') 'कर्वरः’ इति पाठान्तरम् । 'नैर्ऋत: कर्वरः क्रव्यात् कर्वुरो यातुरक्षसी’ इति शब्दार्णवः । कॄ हिंसायाम्’ (क्र्या० उ० से०) । कृणाति । ‘कॄगॄशवृचतिभ्य: श्वरच् (उ० २.१२१) ।