अमरकोशः


श्लोकः

स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः । सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्वर् स्वर् अव्ययम् अव्ययम्
2 स्वर्ग स्वर्गः पुंलिङ्गः सुष्ठु अर्ज्यते स्वर्गः । घञ् कृत् अकारान्तः
3 नाक नाकः पुंलिङ्गः कं सुखं, तद्विरुद्धम् अकं दुःखम्, नास्त्यकमत्र' इति नाकः । अकारान्तः
4 त्रिदिव त्रिदिवः पुंलिङ्गः त्रयः दीव्यन्ति अत्र । बहुव्रीहिः समासः अकारान्तः
5 त्रिदशालय त्रिदशालयः पुंलिङ्गः त्रिदशानामालयः । तत्पुरुषः समासः अकारान्तः
6 सुरलोक सुरलोकः पुंलिङ्गः सुराणां लोकः । तत्पुरुषः समासः अकारान्तः
7 द्यो द्यौः स्त्रीलिङ्गः द्योतन्तेऽस्यां द्यौः गोवत् । डो उणादिः ओकारान्तः
8 दिव् द्यौः स्त्रीलिङ्गः दीव्यन्त्यस्यामिति । क्विप् कृत् वकारान्तः
9 त्रिविष्टप त्रिविष्टपम् नपुंसकलिङ्गः तृतीयं विष्टपं त्रिविष्टपम् । तत्पुरुषः समासः अकारान्तः