त्रिविष्टपम्

सुधाव्याख्या

विशन्त्यस्मिन् सुकृतिन इति विष्टपम् । ‘विटप-विष्टप-विशिपोलपा: (उ० ३.१४५) इति विशेः विश प्रवेशने (तु० प० अ०) कपप्रत्ययः, तस्य च तुट् । 'व्रश्च-' (८.२.३६) इति षत्वम् । तृतीयं विष्टपं त्रिविष्टपम् । पूरणप्रत्ययस्तु वृत्तौ गतार्थत्वान्न प्रयुज्यते । (रूपभेदेनैव क्लीबत्वे लब्धे रूपभेदलब्धलिङ्गविशेषस्यानित्यत्वापनार्थं क्लीब इत्युक्तम् । तस्य फलं ‘कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः' इत्यत्र नपुंसकत्व उक्तेऽपि पुंलिङ्गत्वं सिद्धम् । अत: 'कर्मव्याप्ये क्रियायां च पुंनपुंसकयोर्मतम्' इति रुद्रकोशेन सह न विरोधः शङ्कनीयः) । केचित्तु ‘पिष्टप' इति सूत्रं पठित्वा विशतेरादे: पो निपात्यते-इत्याहुः । अयं पुंस्यपि । तथा चामरमाला-‘पिष्टपो विष्टपोऽप्यस्त्री भुवनं च नपुंसकम्” इति । ‘नभो विष्टपं वृषो गौर्ना पृश्निश्चापि सुरालयः' इति रत्नमाला । एवं शक्रभवनफलोदयावरोहोर्ध्वलोकादयोऽप्यूह्याः ।