स्वर्

सुधाव्याख्या

यद्यपि 'चतुष्टयी शब्दानां प्रवृत्तिः' इति पक्षे संज्ञाशब्देषु व्युत्पत्तिर्नावश्यकी, तथापि शाकटायनाद्यभिमतत्रयीपक्षे व्युत्पत्तिः प्रदर्श्यते ॥ स्वर्यते स्तूयते इति स्वः । 'स्वृ शब्दोपतापयो:' (भ्वा० प० अ०)। 'अन्येभ्योऽपि दृश्यन्ते' (३.२.७५) इति विच् । बाहुलकात्कर्मणि गुणः (७.३.८४), रपरत्वम् (१.१.५१) इत्याहुः । तन्न । निर्बीजबाहुलकाश्रयणस्यायुक्तत्वात् । 'स्वरति शब्दायते' इति व्युत्पत्तिरप्ययुक्ता । उक्तार्थस्य तत्रासम्भवात् । स्वरत्यप्राप्त्या उपतापयति । ‘नैनं कृताकृते तपते' इति श्रुतेः । स्वरादि (१.१.३७) पाठादव्ययत्वम् । 'अव्ययोऽस्त्री शब्दभेदे नाविष्णौ निर्व्यये त्रिषु' । स्व: शब्दस्य मङ्गलार्थमादौ प्रयोगः ('स्व: प्रेत्य व्योम्नि नाके च') ॥