स्वर्गः

सुधाव्याख्या

सुष्ठु अर्ज्यते स्वर्गः । ‘अर्ज अर्जने' (भ्वा० प० से०) । कर्मणि (३.३.१९) घञ् । ऋज्यतेऽस्मिन्नितिवा । ‘ऋजगतिस्थानार्जनोपार्जनेषु' (भ्वा० आ० से०) । ‘हलश्च' (३.३.१२१) इति घञ् । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् ।