अमरकोशः


श्लोकः

बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः । आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥ ५४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बर्हिस् बर्हिः पुंलिङ्गः बृहति । इस् उणादिः सकारान्तः
2 शुष्मन् शुष्मा पुंलिङ्गः शुष्यत्यनेनेति शुष्मा । मनिन् कृत् नकारान्तः
3 कृष्णवर्त्मन् कृष्णवर्त्मा पुंलिङ्गः कृष्णो धूमो वर्त्मास्य । बहुव्रीहिः समासः नकारान्तः
4 शोचिष्केश शोचिष्केशः पुंलिङ्गः शोचींषि ज्वालाः केशा इवास्य । बहुव्रीहिः समासः अकारान्तः
5 उषर्बुध उषर्बुधः पुंलिङ्गः उष संध्यायां बुध्यते प्रकाशते । तत्पुरुषः समासः अकारान्तः
6 आश्रयाश आश्रयाशः पुंलिङ्गः आश्रयमाधारमश्नाति । अण् कृत् अकारान्तः
7 बृहद्भानु बृहद्भानुः पुंलिङ्गः बृहन्तो भानवोऽस्येति । बहुव्रीहिः समासः उकारान्तः
8 कृशानु कृशानुः पुंलिङ्गः कृश्यति । आनुक् उणादिः उकारान्तः
9 पावक पावकः पुंलिङ्गः पुनाति । ण्वुल् कृत् अकारान्तः
10 अनल अनलः पुंलिङ्गः अनित्यनेन । कलच् उणादिः अकारान्तः