शुष्मा

सुधाव्याख्या

शुक्रो वैश्वानरो वह्निर्बर्हिः शुष्मा तनूनपात्’ इति शब्दार्णवात् ‘बर्हिः शुष्मा’ इति व्यस्तं समस्तं नाम इति कश्चित् । तत्र समस्तपक्षे बर्हिः कुशः शुष्म बलमस्येति विग्रहः बर्हिः सान्तः (‘बर्हिः पुंसि हुताशने । न स्त्री कुशे') । बर्हिरिदन्तः । ‘शुष्मा इति नान्तः पृथग् इत्यन्यः । शुष्यत्यनेनेति शुष्मा । ‘शुष शोषणे’ (दि० प० अ०) अन्येभ्योऽपि-’ (३.२.७५) इति मनिन् । संज्ञापूर्वकत्वान्न गुणः ॥ शुष्यति जलम् । शुषेरन्तः भवितण्यर्थात् 'अविसिविसिशुषिभ्यः कित्' (उ०१.१४४) इति मनिप्रत्यये ‘शुष्मः’ अदन्तोऽपि ॥