अमरकोशः


श्लोकः

शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः । ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शम्भु शम्भुः पुंलिङ्गः शं सुखं भवति । डु कृत् उकारान्तः
2 ईश ईशः पुंलिङ्गः ईष्टे । कृत् अकारान्तः
3 पशुपति पशुपतिः पुंलिङ्गः पशूनां जीवानां पतिः । तत्पुरुषः समासः इकारान्तः
4 शिव शिवः पुंलिङ्गः शिवमस्यास्ति । अच् तद्धितः अकारान्तः
5 शूलिन् शूली पुंलिङ्गः शूलमस्यास्ति । इनि तद्धितः नकारान्तः
6 महेश्वर महेश्वरः पुंलिङ्गः महांश्चासावीश्वरश्च । तत्पुरुषः समासः अकारान्तः
7 ईश्वर ईश्वरः पुंलिङ्गः ईशितुं शीलमस्य । वरच् कृत् अकारान्तः
8 शर्व शर्वः पुंलिङ्गः शृणाति । उणादिः अकारान्तः
9 ईशान ईशानः पुंलिङ्गः ईष्टे । चानश् कृत् अकारान्तः
10 शंकर शंकरः पुंलिङ्गः शं करोति । तत्पुरुषः समासः अकारान्तः
11 चन्द्रशेखर चन्द्रशेखरः पुंलिङ्गः चन्द्रः शेखरो यस्य । बहुव्रीहिः समासः अकारान्तः