शिवः

सुधाव्याख्या

शिवमस्यास्ति । अर्शआद्यच् (५.२.१२७) । शिवयतीति वा । 'तत्करोति (वा० ३.१.२) इति ण्यन्तात्पचाद्यच् (३.१.१३४) ॥ (शिवो मोक्षे महादेवे कीलकग्रहयोगयोः । बालके गुग्गुलौ वेदे पुंडरीकद्रुमेऽपि च । सुखे क्षेमे जले क्लीबम् ।।