शम्भुः

सुधाव्याख्या

शम्भुरित्यादि । शं सुखं भवति । अन्तर्भावितण्यर्थात् मितद्द्रादित्वात् (वा० ३.२.१८०) डुः । यत्तु 'शं भवत्यस्माद् इति स्वामिमुकुटौ । तन्न । कर्तरि कृतो विधानादपादाने डुप्रत्यभावात् । शम्भुर्ब्रंहार्हतो: शिवे) |


प्रक्रिया

धातुः - भू सत्तायाम्


शम् + सु भू + डु - डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् (३.२.१८०) । वार्तिकम् ।
शम् + भू + डु - सुपो धातुप्रातिपदिकयोः 2.4.71
शम् + भू + उ - चुटू 1.3.7, तस्य लोपः 1.3.9
शम् + भ् + उ - डित्वसामर्थ्यादभस्यापि टेर्लोपः ।
शम्भु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शम्भु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शम्भु + रु - ससजुषो रुः 8.2.66
शम्भु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शम्भुः -खरवसानयोर्विसर्जनीयः 8.3.15