शर्वः

सुधाव्याख्या

शृणाति । ‘शृ हिंसायाम् (क्र्या० प० से०) । ‘कृगृशृद्दृभ्यो वः (उणा० १.१५५) ॥ ‘षर्व गतौ (वा० प० से०) इत्यतः 'षर्व हिंसायाम्' (भ्वा० प० से०) इत्यतो वा वबयोरभेदात् पचाद्यचि (३.१.१३४) ‘सर्वः’ अपि । ‘सर्वस्तु शर्वो भगवान् शम्भुः कालंजरः शिवः इति नामनिधानात् । (‘कालंजरो योगिचक्रे मेलके भैरवे गिरौ') |