अमरकोशः


श्लोकः

विनायको विघ्नराजद्वैमातुरगणाधिपाः । अप्येकदन्तहेरम्बलम्बोदरगजाननाः ॥ ३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विनायक विनायकः पुंलिङ्गः विनयति । ण्वुल् कृत् अकारान्तः
2 विघ्नराज विघ्नराजः पुंलिङ्गः विघ्नानां राजा । तत्पुरुषः/टच् समासः अकारान्तः
3 द्वैमातुर द्वैमातुरः पुंलिङ्गः द्वयोर्मात्रोरपत्यम् । अण् तद्धितः अकारान्तः
4 गणाधिप गणाधिपः पुंलिङ्गः गणानां प्रमथानामधिपः । तत्पुरुषः समासः अकारान्तः
5 एकदन्त एकदन्तः पुंलिङ्गः एको दन्तोऽस्य । बहुव्रीहिः समासः अकारान्तः
6 हेरम्ब हेरम्बः पुंलिङ्गः हेरम्बते । अच् कृत् अकारान्तः
7 लम्बोदर लम्बोदरः पुंलिङ्गः लम्बमुदरमस्य । बहुव्रीहिः समासः अकारान्तः
8 गजानन गजाननः पुंलिङ्गः गज आननमस्य । बहुव्रीहिः समासः अकारान्तः