गजाननः

सुधाव्याख्या

गज आननमस्य । ‘समुदायशब्दा अवयवेऽपि वर्तन्ते इति गजमुखपरो गजशब्दः ॥ नन्वत्र द्वन्दो न प्राप्नोति । विरूपाणामपि समानार्थानाम् (वा० १.२.६४) । इत्येकशेषविधानात् । मैवम् । स्वरूपपदार्थकानामेषां द्वन्द्वविधानात् । स्वरूपस्य च प्रतिशब्दं भिन्नत्वेन समानार्थताया एवाभावात् । अर्थपरता तु लक्षणया ज्ञेया । तारतम्यशब्दवत् । सर्वत्रैवं बोध्यम् ।