द्वैमातुरः

सुधाव्याख्या

द्वयोर्मात्रोरपत्यम् । मातुरुत्संख्यासम्भद्रपूर्वायाः (४.१.११५) इत्यणि उत्वं रपरत्वं च । दुर्गाचामुण्डाभ्यां पालितत्वात् । गजमुखतया हस्तिन्या अपत्यत्वात् । गङ्गाया अपत्यत्वाद्वा । द्वैमातुरो जरासंधवारणाननयोः पुमान् ।