हेरम्बः

सुधाव्याख्या

हेरम्बते । ‘हः शंकरे हरौ हंसे रणरोमाञ्चवाजिषु’ इति नानार्थरत्नमाला । अबि रबि शब्दे । पचाद्यच् (३.१.१३४) । ‘तत्पुरुषे कृति-’ (६.३.१४) इत्युलुक् । हे उषसि रम्बते इति स्वामी । (‘हेरम्बः शौर्यगर्विते । महिषे विघ्नराजे च') ।