अमरकोशः


श्लोकः

शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला । अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका ॥ ३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शिवा शिवा स्त्रीलिङ्गः शिवमस्त्यस्याः । टाप् स्त्रीप्रत्ययः आकारान्तः
2 भवानी भवानी स्त्रीलिङ्गः भवस्य स्त्री । ङीष् स्त्रीप्रत्ययः ईकारान्तः
3 रुद्राणी रुद्राणी स्त्रीलिङ्गः रुद्रस्य स्त्री । ङीष् स्त्रीप्रत्ययः ईकारान्तः
4 शर्वाणी शर्वाणी स्त्रीलिङ्गः शर्वस्य स्त्री । ङीष् स्त्रीप्रत्ययः ईकारान्तः
5 सर्वमङ्गला सर्वमङ्गला स्त्रीलिङ्गः सर्वेभ्यः सर्वेषां वा मङ्गला । तत्पुरुषः समासः आकारान्तः
6 अपर्णा अपर्णा स्त्रीलिङ्गः न पर्णान्यस्याः । तत्पुरुषः समासः आकारान्तः
7 पार्वती पार्वती स्त्रीलिङ्गः पर्वतस्येयम् । अण् तद्धितः ईकारान्तः
8 दुर्गा दुर्गा स्त्रीलिङ्गः दुःखेन गम्यते ज्ञायतेऽस्याम् । तत्पुरुषः समासः आकारान्तः
9 मृडानी मृडानी स्त्रीलिङ्गः मृडस्य स्त्री । ङीष् स्त्रीप्रत्ययः ईकारान्तः
10 चण्डिका चण्डिका स्त्रीलिङ्गः चण्डते । ण्वुल् कृत् आकारान्तः
11 अम्बिका अम्बिका स्त्रीलिङ्गः अम्बैवाम्बिका । कन् कृत् आकारान्तः