दुर्गा

सुधाव्याख्या

दुःखेन गम्यते ज्ञायतेऽस्याम् । ‘सुदुरोरधिकरणे’ (वा० ३.२.४८) इति ड: । दुःखेन दुष्टैर्वा गीयते स्तूयते । ‘गैशब्दे (भ्वा० प० अ०) । ‘आतश्चोपसर्गे’ (३.३.१०६) इत्यङ् । 'दुर्गं कोटे दुर्गमे स्यादुर्गा तु नीलिकोभयोः’ इति हेमचन्द्रः ।