चण्डिका

सुधाव्याख्या

चण्डते । ‘चडि कोपे’ (भ्वा० आ० से०) । ण्वुल् (३.१.१३३) । पचाद्यच् (वा० ३.१.१३४) ‘बह्वादिभ्यश्च ४.१.४५) इति ङीषि चण्डी’ इत्यपि । 'चण्डी कात्यायनी देव्यां हिंस्रकोपनयोषितोः ।


प्रक्रिया

धातुः - चडिँ कोपे


चड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चन्ड् - इदितो नुम् धातोः 7.1.58
चंड् - नश्चापदान्तस्य झलि 8.3.24
चण्ड् - अनुस्वारस्य ययि परसवर्णः 8.4.58
चण्ड् + ण्वुल् - ण्वुल्तृचौ 3.1.133
चण्ड् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
चण्ड् + अक - युवोरनाकौ 7.1.1
चण्डक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
चण्डक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
चण्डका - अकः सवर्णे दीर्घः 6.1.101
चण्डका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चण्डका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चण्डका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
चण्डिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44