पार्वती

सुधाव्याख्या

पर्वतस्येयम् । पार्वती । ‘तस्येदम्' (४.३.१२०) इत्यण् । अपत्यार्थे त्वपवादत्वादिञ् (४.१.९५) स्यात् । ’इतो मनुष्य-'(४.१.६५) इति न ङीष् । मनुष्यजातिवाचित्वाभावात् । ‘क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते’ इति वा समाधेयम् ।।